दीपिकानिरुक्तिनयोः तर्कसंग्रहस्य पदार्थसमीक्षणम्।
DOI:
https://doi.org/10.67715/ijerast.v1i6.36Keywords:
दर्शन, समानतन्त्र, प्रकरण,पदार्थ, अभिधेयत्व, ज्ञेयत्वAbstract
दुःखनिवृत्तिप्रयोजनमवलम्ब्य दर्शनशास्त्रस्य सृष्टिः अभवत्। दृश्- धातोः उत्तरं ‘करणाधिकरणयोश्च’ सूत्रेण ल्युट्- प्रत्ययेन दर्शनशब्दस्य व्युत्पत्तिः भवति। चक्षुरिन्द्रियादिसहायेन वाह्यविषयाणां ज्ञानलाभः अत्र न अभिप्रेतः। भारतीयदर्शने दर्शनशब्दस्यार्थ: भिन्नः। ‘‘दृश्यते साक्षात् क्रियते तत्त्वम् एभिरिति दर्शनानि।’’ अर्थात् येन तत्त्वपोलब्धिः भवति तत् दर्शनम्। दर्शनेन तत्त्वज्ञानं भवति। अत्र तत्त्वस्य अर्थात् यथार्थज्ञानस्य विषयः आत्मा। अतः वक्तुं शक्यते दर्शनमित्यस्यार्थः तत्त्वदर्शनम्, आत्मदर्शनम्, आत्मोपलब्धिर्वा। आत्मज्ञानेन हि दुःखस्य चिरनिवृत्तिः भवति। भारतीयदर्शनम् आस्तिकनास्तिकभेदेन द्विविधम्। आस्तिकाः वेदस्य प्रामाण्यं स्वीकुर्वन्ति, नास्तिकाः तु वेदनिन्दकाः। मनुसंहितायाम् आलोच्यत- ‘नास्तिको वेद-निन्दकः’। आस्तिकश्रेण्याम् अस्ति न्यायः वैशेषिकः सांख्यः योगः मीमांसा वेदान्तश्च। नास्तिकश्रेण्याम् अस्ति चार्वाकः जैनः बौद्धश्च। सर्वे आस्तिकदार्शनिकाः मोक्षोपायं प्रदर्शयन्ति। भिन्नोपायेषु येषां दार्शनिकानां मतसाम्यं परिलक्ष्यते ते समानतन्त्रदर्शनं इत्यभिधीयते। यथा १) सांख्यं योगश्च। २) वैशेषिकः न्यायः च। ३)मीमांसा वेदान्तश्चेति। समानतन्त्रदर्शनेषु न्यायवैशेषिकदर्शनयोः प्रकरणग्रन्थः तर्कसंग्रहः। प्रकरणग्रन्थसहायेन मुख्यशास्त्रविषये जिज्ञासुजनः सहजोपायेन विषयज्ञानं भवति। तर्कसंग्रहग्रन्थस्य मूलविषयाः सरलरूपेण वोधार्थं प्रायः पञ्चविंशत्याधिकाः टीका परिदृश्यन्ते। तासाम् अन्यतमा दीपिकाटीका। तर्कसंग्रहस्य दीपिकाटीका अन्नंभट्टेन विरचिता। पुनः एका टीका प्राप्यते निरुक्तिः। तर्कसंग्रहस्य निरुक्तिटीकायाः कर्ता जगन्नाथशास्त्री। अत्र दीपिकाटीकायाः समालोचना दृश्यते। यद्यपि अन्नंभट्टेन तर्कसंग्रहे आदौ पदार्थलक्षणं विशेषरूपेण न कृतं परन्तु शोधपत्रे उल्लिखितयोः द्वयोः टीकयोः पदार्थस्वरूपम् आलोचितम्। कथं अन्नंभट्टेन आदौ पदार्थलक्षणं न कृत्वा पदार्थविभागः कृतः इत्यस्य समाधानम् अस्मिन् शोधपत्रे आलोच्यते। तर्कसंग्रहकारेण अन्नंभट्टेन कथम् तर्कंग्रहस्य आदौ द्रव्यादिपदार्थाः आलोचिताः इत्यस्य समाधानम् अस्मिन् शोधपत्रे आलोच्यते। अन्नंभट्टेनोल्लिखिते ‘द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः सप्त पदार्थाः’ इति अंशे कुत्रापि प्रत्यक्षरूपेण पदार्थस्य विभागः भावाभावरूपेण न प्राप्यते। अभावपदार्थस्य प्रत्यक्षोल्लेखः प्राप्यते परन्तु को भावपदार्थः तस्य परिचयोऽत्र प्रत्यक्षरूपेण न परिदृश्यते। कथम् अन्नंभट्टेन स्पष्टरूपेण पदार्थस्य भावाभावरूपेण विभागः न कृत्वा द्रव्यादिभेदेन कृतं तत् आलोचितम्। दीपिकानिरुक्त्योः पदार्थस्य भिन्नलक्षणं प्राप्यते। दीपिकाटीकायां पदार्थलक्षणम् उल्लिखितम्-“पदस्यार्थः पदार्थ इति व्युत्पत्त्याभिधेयत्वं पदार्थसामान्यलक्षणम्।” निरुक्तिटीकायां पदार्थलक्षणं प्राप्यते-“ज्ञेयत्वं पदार्थलक्षणम्।” अतः तर्कसंग्रहस्य दीपिकानिरुक्त्योः तुलनात्मकमध्ययनेन कस्याः टीकायाः पदार्थलक्षणं उत्तमं कथं च इत्यस्य विचारः शोधपत्रस्य पदार्थस्वरूपविचारांशे क्रियते।
